श्री गणेश · Sanskrit
मन्त्रपुष्पांजली
Mantra Pushpanjali
A traditional devotional offering of Mantra Pushpanjali.
Original lyrics
ॐ येन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥
ॐ राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे ।
स मे कामान् कामकामाय मह्यं कामेश्वरो वैश्रवणो ददातु ।
कुबेराय वैश्रवणाय महाराजाय नमः ।
ॐ स्वस्ति ।
साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं ।
समन्तपर्यायी स्यात् सार्वभौमः सार्वायुषः अन्तादापरार्धात् ।
पृथिव्यै समुद्रपर्यन्ताया एकराळिति ।
तदप्येषः श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे ।
आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ॥
एकदन्ताय विद्महे वक्रतुण्डाय धीमहि ।
तन्नो दन्तिः प्रचोदयात् ।
॥ मन्त्रपुष्पांजली समर्पयामि ॥